text
stringlengths
0
194
     तुभ्यं तदा परदास्यामि पाण्डवास्त्राणि सर्वशः
 
अहम एव च तं कालं वेत्स्यामि कुरुनन्दन
     तपसा महता चापि दास्यामि तव तान्य अहम
 
आग्नेयानि च सर्वाणि वायव्यानि तथैव च
     मदीयानि च सर्वाणि गरहीष्यसि धनंजय
 
वासुदेवॊ ऽपि जग्राह परीतिं पार्थेन शाश्वतीम
     ददौ च तस्मै देवेन्द्रस तं वरं परीतिमांस तदा
 
दत्त्वा ताभ्यां वरं परीतः सह देवैर मरुत्पतिः
     हुताशनम अनुज्ञाप्य जगाम तरिदिवं पुनः
 
पावकश चापि तं दावं दग्ध्वा समृगपक्षिणम
     अहानि पञ्च चैकं च विरराम सुतर्पितः
 
जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च
     युक्तः परमया परीत्या ताव उवाच विशां पते
 
युवाभ्यां पुरुषाग्र्याभ्यां तर्पितॊ ऽसमि यथासुखम
     अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम
 
एवं तौ समनुज्ञातौ पावकेन महात्मना
     अर्जुनॊ वासुदेवश च दानवश च मयस तथा
 
परिक्रम्य ततः सर्वे तरयॊ ऽपि भरतर्षभ
     रमणीये नदीकूले सहिताः समुपाविशन